“मन्दाक्रान्ता तव मतिरहो दुःशकालोचनैर्यत्
त्वं मां ब्रूषे ‘गणय कति सन्त्यक्षराण्यत्र पद्ये
संख्या लब्धा मम खलु वयोब्दे’ष्विति स्यादसत्यम्
त”न्मामेवं
वदति गृहिणी मन्दहासान् किरन्ती
तां वच्म्यार्ये निशितधिषणे पञ्चमः पाद एषः’ ||
अन्वयः : गृहिणी
मन्दहासान् किरन्ती माम् एवम् वदति,” अहो, तव मतिः दुःशक-आलोचनैः आक्रान्ता मन्दा | य़त्
त्वम् माम् ब्रूषे,’अत्र पद्ये कति अक्षराणि सन्ति, गणय | लब्धा संख्या अब्देषु मम वयः खलु ‘ इति
तत् असत्यं स्यात् | अहं तां वच्मि, ‘आर्ये,निशितधिषणे, [अस्य पद्यस्य] एषः पञ्चमः पादः |”