Sunday, January 22, 2017

Sanskrot blog: Chandrika ( A Fairy tale)-73

चन्द्रिका-७३
  एकाकिनी नु कथमेषि विहाय पुत्र्यौ
मा गा इह क्षपय कालमिति ब्रुवन्तीम्।        
पुत्रीमुमामवदतीप्सितनिर्णयां माम्
  रुन्धे न कोऽपि शमथं भज मा शुचस्त्वम् ॥ २५९ ॥
श्रुत्वा स्पष्टं गिरिवदचलं निश्चयं तं कलायाः
तस्या अङ्कं प्रति निरगमत् चन्द्रिकाङ्कात् बिडालः ।
एकाकिन्यै सहचरसुखं रक्षणं च प्रदातुं
      तिर्यक्जन्तुः स्वऋजुचरितैः दर्शयेत् तत्त्वमार्गम् ॥ २६० ॥
  मार्जारेणान्वहमनुसृतागात् कला पुण्यकाशीं
  भर्त्राश्वस्ता प्रियसहचरी चन्द्रिका दीपयन्ती ।
  राज्ञः सौधं पुरजनपदान् स्मेरवक्त्रा बभासे
  भुञ्जानेष्टान् युवसमुचितान् धर्म्यकामान् समृद्धान् ॥ २६१ ॥

चन्द्रिकाख्यं खण्डकाव्यं सम्पूर्णम्
     - - - - 

Saturday, January 14, 2017

Sanskrit blog: Chandrika (A Fairy tale)-72

चन्द्रिका-७२
 सप्रश्रयं स्वजननीं प्रणिपत्य पुत्र्यौ
बाष्पावरुद्धवचसागदतां विनम्रे ।
अद्यप्रभृत्यपगतं तव कृच्छ्रजातम्
अस्मद्गृहे गतभया सुखमास्व मातः ॥ २५६ ॥
माता विहस्य जनसंसदि सानुतापं
लज्जानुलिप्तवचसा न्यगदत्स्वपुत्र्यौ ।
तुष्टास्मि भोः सपदि चन्द्रिकयोपदिष्टा  
नास्तीह कार्यमधुना मम जागृताहम् ॥ २५७ ॥
वाराणसीं जिगमिषामि ममात्मशान्त्यै
पायात् हरिः पुरजनान् सकलांश्च युष्मान् ।
यस्यांघ्रियुग्ममनिशं मनुजाः स्मरन्तः
विन्दन्ति शाश्वतसुखं तमहं श्रयामि ॥ २५८ ॥
- - - -

                                

Sunday, January 8, 2017

Sanskrit blog: Chandrika ( A Fairy tale )-71

चन्द्रिका-७१

नात्राभवत् परिणतः न युवा न बालः
योऽन्नप्रदानमनुभूय न तृप्तिमाप |
नैवाभवच्च युवतिः स्थविरा कुमारी
योपायनं न परिगृह्य विवेद तुष्टिम् ॥ २५३ ॥

राजस्नुषाभिमतमेतदिति ब्रुवाणैः
तत्तत्पशूचितनवीनसुसिद्धखाद्यैः ।    
सम्प्रीणिताः नगरगोव्रजपक्षिवृन्दाः
मार्जालकुक्करगणाः धरणीशभृत्यैः ॥ २५४ ॥

बध्वौ स्वभर्तृसहितेऽमितभोगभाग्ये
पादार्चनाय जननीमभिजग्मतुस्ते ।
दुःखं सुखं च युगपत् ह्यनुभूय माता         

वर्षातपाहतधरेव बभौ विमूढा ॥ २५५ ॥
- - - -