Saturday, September 24, 2016

Sanskrit blog: Chandrika (A fairy tale)-56

चन्द्रिका-५६

स्मितमुखी दृढनिश्चयचोदिता
सपदि तां स्फुरदुज्ज्वलपादुकाम् ।
अधिरुरोह सलीलमलज्जिता
नृपभटोत्थमुदा सह चन्द्रिका ॥ २१० ॥
 x x x

अथ राजभटाः प्रफुल्लवक्त्रा:
विनयोपेतगिरा समाह्वयन्स्तां ।
शृणु देवि पुरेशपुत्रपत्नी
भवितासि त्वममोघभाग्यशक्त्या ॥ २११ ॥

परिधानमनाविलं वसाना
दृढमच्छिद्रमितो नृपालयं त्वम् ।
व्रज शीघ्रमुदेति भाग्यसूर्यः
नृपपुत्रास्यमिषेण तावकीनः ॥ २१२ ॥
- - - - 

Saturday, September 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-55

चन्द्रिका-५५

तदनु चन्द्रिकया स्वमनोरथः
स्खलितवाचि गदितः कलां प्रति ।
यदि यते परिधातुमुपानहं
सफलता खलु सिद्ध्यति भाति मे ॥ २०७ ॥

अयि कथं कृपणा मणिपादुकां
समधिरोढुमिमां त्वमिच्छसि ।
प्रथितसत्कुलजोचितभाजनं
भजति भृत्यजनस्य न लभ्यताम् ॥ २०८ ॥

इति वचो भणितं कलया यदा
नृपभटैः प्रसभं समुदीरितं ।
भवति नात्र मनागपि भिन्नता
भृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९ ॥
- - - - 

Saturday, September 10, 2016

Sanskrit blog : Chandrika-54

चन्द्रिका-५४

नृपनिदेशधरैः हि तथैव सा
प्रकटिता नगरे मणिपादुका ।
युवतयोह्ययतन्त समुत्सुकाः
चरणमानमभूत्पृथु पादुकात् ॥ २०४ ॥

श्रुतवती नरपस्य सुनिश्चयं
नृपभटान् स्वगृहं समुपाहरत् ।
निजपदेन कला मणिपादुकाम्
समधिरोढुमुमां समचूचुदत् ॥ २०५ ॥

 रमयितुं जननीमिव निश्चिता
 अयतताप्तुमशक्यमुमा वृथा ।
 क्व तनुगात्रवती मणिपादुका
 क्व पृथुलः चरणः जडयोषितः ॥ २०६ ॥
- - - - 

Saturday, September 3, 2016

Sanskrit blog: Chandrika (A Fairy tale)-53

चन्द्रिका-५३

व्यलपतित्थमवेक्ष्य स पादुकां 
कथमसि त्वमिहाद्य निशामुखे ।
सुमपदां स्खलितां च विसृज्य ताम्
उपवने पदपांसुभिरावृता ॥ १९९ ॥

कथय कुत्र गता मम हृत्प्रिया
कथय नाम कुलं च मम स्त्रियाः ।
कथमहो मम मानसनायिकां
पथि विहाय वने न विलज्जसे ॥ २०० ॥

इतरथा न भवेत्तव दर्शनं
मम गतिर्हि भवेदतिदुस्सहा ।
नियतिरेव गतस्य तु कारणं
लघयसि त्वमिमां मम वेदनाम् ॥ २०१ ॥

निजसुतं विलपन्तमनर्गलं
सपदि सान्त्वयितुं धरणीपतिः।
अवदतात्मज मा भव कातरः
प्रियतमामचिरात्परिणेष्यसे ॥ २०२ ॥   
- - - -