Saturday, October 31, 2015

Sanskrit blog: Chandrika (A fairy tale)-9

चन्द्रिका-९

चन्द्रिकापि युवतिप्रभां दधौ
फुल्लदुच्चकुचकुड्मलश्रिया ।
प्रापतुश्च जघने विशालताम्
कापि मोहकरुचिर्मुखे बभौ ॥ ३९ ॥

लोलमुग्धपरिधावकेक्षणैः
वायुनुन्नतनुनीलकुन्तलैः ।
भीरुताक्तमृदुहासविभ्रमैः
नूपुरध्वनितमन्दसङ्क्रमैः ॥ ४० ॥                           

आचकर्ष वनिता अपि क्षणात्
चन्द्रिका ससुखमायतेक्षणा ।
किं पुनर्युवजनान् महापुरे
यौवनज्वरसुतप्तदेहिनः ॥ ४१ ॥

चन्द्रिकामहमपश्यमापणे
नेत्रमेलनकृतौ तया सह ।
प्राप्तसौख्यमतुलंत्वितीरितं
स्नेहितेषु तरुणेन केनचित् ॥ ४२ ॥

मद्गृहस्य पुरतः प्रयाति सा
प्रत्यहं मम हि भाग्यदेवता ।
इत्यवोचदपरः कृती युवा
यौवनस्य विविधा गतिर्ध्रुवम् ॥ ४३ ॥
- - - - 

Saturday, October 24, 2015

Sanskrit blog: Chandrika (A fairy tale)-8

चन्द्रिका-८
बाष्पार्द्राक्षीमात्मजां सान्त्वयित्वा
कोपाक्रान्तां स्मेरवक्त्रां चकार ।
क्षुद्बाधां स्वां लीलया नावलोक्य
प्रादादन्नं पीडयन्त्यै सुतायै ॥ ३४ ॥

सोढ्वा पुत्र्या दुर्नयं बाल्यजातं
तस्यै वृत्तिं सज्जनानां शशास ।
स्वच्छायायां आश्रितां वृक्षवत् सा
पुत्रीं सम्यक् सर्वकाले ररक्ष ॥ ३५ ॥

सर्वं कालात् क्षीणतां गच्छतीति
प्राज्ञानां सद्भाषितस्यानुरोधात् ।
शान्ता भूत्वा चन्द्रिका जन्मदस्य
सेवां कर्तुं गूढबाधा प्रयेते ॥ ३६ ॥

तातस्सोऽपि स्वात्मजाप्रीणनाय
पत्नीप्रेम्णा वञ्चितोऽपि स्वदुःखम् ।
गूहन्तस्याः शिक्षणारोग्यवृद्ध्यै
पुत्रीवक्त्रस्मेरबिम्बैर्ननन्द ॥ ३७ ॥

काले याते वाणिजो कामविद्धः
भार्यामन्यां लब्धुमिच्छामवाप ।
चित्रं नैतत् जीविनां स्त्रीसुखेच्छा
सर्वेच्छासु प्रायशः दुर्निवार्या ॥ ३८ ॥
- - - - 

Saturday, October 17, 2015

Sanskrit blog: Chandrika (A fairy tale)-7

चन्द्रिका-७

इत्थं सिद्धश्चन्द्रिकां बोधयित्वा
हर्षोत्सिक्तां तां क्षमामित्यवोचत् ।
विश्वेऽनित्ये शाश्वतं नास्ति किञ्चित्    
निश्चिन्ताभूः न्यस्य भारं रमेशे ॥ २९ ॥

साधुप्रोक्तां वाचमास्वादयन्ती
पुत्र्या साकं सा क्षमा शान्तचित्ता ।
प्रत्यावृत्ता स्वालयं नष्टभीतिः
सन्तः पोष्यश्रेयसे सिद्धहस्ताः ॥ ३० ॥

चित्तं तस्याः शारदाकाशतुल्यं
स्वच्छं शान्तं सर्वदाभूत्तथापि ।
प्राप्तिः तस्याः संसृतौ सीमितासीत्
रोगार्तागादूर्ध्वलोकं जवेन ॥ ३१ ॥

तस्याः पुत्र्याः शोकसंप्लावितायाः
को वा लोके सान्त्वनं हन्त कुर्यात् ।
मातृप्राया का भवेदर्भकस्य
मातानन्या देहिनां सर्ववन्द्या ॥ ३२ ॥     
        
मातू रूपं दृश्यते सर्वतोऽस्याः
वाण्यस्पष्टं श्रूयते सर्वकाले ।
स्पर्शः स्निग्धः भासते स्वप्नमध्ये
वात्सल्यार्द्राह्वानशैली न लब्धा ॥ ३३ ॥
- - - -

Saturday, October 10, 2015

Sanskrit blog: Chandrika (A fairy tale }-6

चन्द्रिका-६

सिद्धो वृद्धो तां दयापूर्णदृष्ट्या
ऽपश्यत् पश्चात् मीलिताक्षो बभूव ।
पश्यन्ती सा तं मुनिं ध्यानमग्नं 
भ्रान्ते चित्ते कामपि प्राप शान्तिम् ॥ २४ ॥

शूलं व्याधेः तत्क्षणादेव नष्टं
दीप्ते दीपे ध्वान्तवत् गेहकक्षे ।
विस्मृत्याधिं शान्तचित्ता ययाचे
साधौ पश्यत्यञ्जसोन्मील्य नेत्रे ॥ २५ ॥

आश्चर्यं मे ग्लानिरन्तर्दधाति
त्वत्कारुण्यौघप्लाविता वल्लरीव ।
मद्देहार्थं कामये नापि किञ्चित्
भूयात् पुत्र्याः मेऽद्वितीयार्थयोगः॥ २६ ॥

ज्ञानी तस्याः प्रार्थनां स्मेरवक्त्रः
शृण्वन् तां स्वप्रेमदृष्ट्याभ्यषिञ्चत् ।
माभीर्वत्से इत्यवोचत्तथैव
प्रादात् पुत्र्यै गुह्यमन्त्रोपदेशम् ॥ २७ ॥

कुर्यान्मन्त्रस्य प्रयोगं त्रिरेव
नो चेत् बाले निष्फलत्वं स गच्छेत् ।
तस्मात् कृच्छ्रेष्वेव मन्त्रप्रयोगः
भूयान्मैतद्विस्मर त्वं कदापि ॥ २८ ॥  
- - - - 

Saturday, October 3, 2015

Sanskrit blog: Chandrika ( A fairy tale)-5

चन्द्रिका-५

वैद्या रुग्णां नैकरीत्या परीक्ष्य
काम्यादन्यं निर्णयं प्राप्तवन्तः ।
रोगस्तस्याः भेषजातीतवृत्तिं
प्राप्तः तस्माद्दुर्गमः स्वास्थ्यमार्गः ॥ १९ ॥

वैद्या ऊचुर्वाणिजं ते प्रियायाः
भैषज्यार्थं कुर्महे सर्वयत्नान् ।
दैवायत्तं स्वास्थ्यमस्याः इदानीं
नोपेक्ष्यः स्यादादितो व्याधिवह्निः ॥ २० ॥

काले काले सेव्यमाना स्वभर्त्रा
मृत्योर्भीताऽभक्षयत् श्रद्दधाना ।
सर्वान् जायून्वैद्यदत्तान् तथापि
ग्रीष्मे कुल्येवाभजत्कार्श्यमाशु ॥ २१ ॥

दीना तन्वी म्लानपुष्पोपमा सा
स्वास्थ्यप्राप्तिं काङ्क्षमाणा कथञ्चित् ।
द्रष्टुं याता तापसं सुप्रसिद्धं
आर्तानां वै ज्ञानिनो विष्णुकल्पाः ॥ २२ ॥

पूज्य ज्ञानिन् आश्रितानां शरण्यं
दीना चाहं प्रश्रिता त्वां प्रपद्ये ।
व्याधित्रस्तामेकपुत्रीं च साध्वीं
कारुण्याब्धे पाहि मामित्यवोचत्॥ २३ ॥
- - - -