Saturday, October 26, 2013

Sanskrit blog: Humour-84

हास्यसीकरः-८४
श्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म ।सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, “कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततः प्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, “ बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, “ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति । तुष्टाः प्राश्निकाः तमवदन्, “भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्” इति ।
कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, “भोः, ब्रूहि, किं पृष्टम्?” । सः अवदत्, “प्रश्नाः गोप्याः । वक्तुं न शक्नोमि” इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, “प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि” इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत्। प्रगल्भः धर्मसिंहः तान्युत्तराणि कंठगतान्यकरोत् ।

यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, “ तव जन्म कदा अभवत्?” इति । सः प्रत्यवदत्,  कतिपयवर्षेभ्यः प्राक् प्रारब्धः  सततःप्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । उत्तरेण विस्मितः तमपृच्छत्, “ तव पितुर्नाम किम्?” इति । सः प्रत्यवदत्, ““ बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । रुष्टः प्राश्निकः अपृच्छत्, “ भ्रान्तः असि किम्?” इति । सः विनीतः प्रत्युवाच  
“ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति ।
- - - - 

Saturday, October 19, 2013

Sanskrit blog: Child's smile

शिशुस्मितम्
लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् ।
वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं मनोज्ञम् ॥

सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत्  केतकपुष्पगन्धात् ।
वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ 
- - - - 

Saturday, October 12, 2013

Sanskrit blog: Humour-83

हास्यसीकरः-८३
मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् ।  विपणी तच्चौर्यं नापश्यत्  । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, “पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्” इति । देवदत्तः तं “ तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव” इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, “आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि” इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, “मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि” इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, “तत्र का माया?” । देवदत्तः अवदत्, “इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति” इति ।
- - - -  

Friday, October 4, 2013

Sanskrit blog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच
ज्ञात्वा स्वबलमितिं  ज्ञात्वा स्व गुणगणम्
बाह्यस्थितिं चैव सूक्ष्मं विलोक्य ।
कार्यस्यपरिधिमनतिक्रम्य  कुर्यात्
धन्यः स धीरो हि मूढतिम्मो ॥

From DVG’s “Manku timmana kagga” in Kannada:
ತನ್ನ ಶಕ್ತಿಯನಳೆದು ತನ್ನ ಗುಣಗಳ ಬಗೆದು
ಸನ್ನಿವೇಶದ ಸೂಕ್ಷ್ಮವರಿತು, ಧೃತಿದಳೆದು
ತನ್ನ ಕರ್ತವ್ಯಪರಿಧಿಯ ಮೀರದುಜ್ಜುಗಿಸೆ

ಪುಣ್ಯಶಾಲಿಯ ಪಾಡು ಮಂಕುತಿಮ್ಮ || ೫೭೬ ||
- - - -