Saturday, September 28, 2013

Sanskrit blog: Humour-82

हास्यसीकरः-८२
त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म ।
प्रथमः : अये, शृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
द्वितीयः : तद्यत्किञ्चित् खलु । शृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
तृतीयः : युवां कुतः कत्थेथे? शृणूतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः। तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं  सार्धचतुर्वादनसमय एव उपैति।
- - - - 

Saturday, September 21, 2013

Sanskrit blog: Reflexions on Voyager space ship

विश्वसांयात्रिकः
षट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनं ।
विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥१॥
“यदा त्वं भुवि संजातः गुरुशुक्रग्रहेक्षणे ।
विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥२॥
युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते ।
विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥३॥
एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् ।
कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥४॥
मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् ।
त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥५॥
घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः ।
घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥६॥
शतात् द्वादशकोटीनां  मैलदूरात् किमुच्यते ।
त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद “॥७॥
“निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः ।
तथापि किञ्चित् वचनं भवद्भिः श्राव्यं मम प्रश्रितमानसैरिदम् ॥८॥
स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव ।

भवद्भिरेवं रविमण्डलात्परम् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्” ॥९ ॥
- - - - 
मैलम्=Mile

Saturday, September 14, 2013

Sanskrit blog: Humour-81

हास्यसीकरः-८१
कस्मिंश्चित् ग्रामे कश्चन क्रिस्तमतावलम्बी असूनत्यजत् । तद्ग्रामस्य क्रिस्तपूजके व्याधिग्रस्ते गतासोः   शवसंस्कारार्थं निकटस्थग्रामादन्यस्मात् अन्यः क्रिस्तपूजकः आनीतः । शवसंस्कारात् प्राक् क्रिस्तपूजकः गतासुमुद्दिश्य सद्वचनानि वदेदिति क्रिस्तमतविधिः वर्तते । तं विधिमनुसृत्य क्रिस्तपूजकः अभाषत । “ भोः सर्वे बान्धवाः शृणुत । अयं गतासुः सज्जनशिरोमणिः,  सदाचारसम्पन्नः, सद्गुणवारिधिः, वदान्यः, स्मितपूर्वाभिभाषी,- - - “ । इत्थं गतासोः गुणगानं निरर्गलं कुर्वति पूजके, तस्य भाषणे प्रतिबन्धं कुर्वती गतासोः धर्मपत्नी उच्चैरवदत्, “भोः, किमिदम्? मम भर्तुरन्यस्य कस्यापि शवसंस्कारः क्रियमाणः इति भाति । यस्य गुणगानं क्रियमाणं स मम भर्ता न भवेत् “ इति ।
- - - -  

Saturday, September 7, 2013

Sanskrit blog: Parrot critic

छिद्रान्वेशी
“कृतकशुकोऽयं दुनोति मम मनः सुभृशमत्र विनिवेशितः ।
कोऽस्य कर्ता हन्त स तु वेद्म्यहं कर्मण्यनभिज्ञः ।। १ ॥
कति कृता कृतका मया विहगा क्व सुभगता सहजा तेषाम् ।
क्वेदं वैरूप्यं भोः तूर्णमपसारयतेममितः ॥ २ ॥  
इदं कीरतुण्डं किं? को निगदति शुकस्य कण्ठ इतीमम् ।
शुकपक्षौ इत्थं किं? पादौ वक्रौ नखा निम्नाः” ॥ ३ ॥
इत्थं जल्पति सुचिरं कृतकखगकर्मविचक्षणे सहसा ।

तमभिभवन्निव कीरः गवाक्षाश्रित उदपतद्वै ।। ४ ॥
- - - -
[Inspired by a poem in English on a similar theme]