Saturday, May 26, 2012

Sanskrit blog: So said Timmu the dull-headed



मूढतिम्मुरुवाच
जगदिदं प्राक्तनं नितरां पुरातनम्
रूढं सहस्राणि साराणि पीत्वा
असुकरं खलु तत्स्वभावपरिवर्तनम्
तत्र त्वरा मास्तु मूढतिम्मो ॥८७५॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಲುಹಳೆಯ ಲೋಕವಿದು, ಬಲು ಪುರಾತನಲೋಕ
ಬೆಳೆದಿರ್ಪುದಿದು ಕೋಟಿರಸಗಳನು ಪೀರ್ದು|
ಸುಲಭವಲ್ಲಿದರ ಸ್ವಭಾವವನು ಮಾರ್ಪಡಿಸೆ
ಸಲದಾತುರತೆಯದಕೆ ಮಂಕುತಿಮ್ಮ || ೮೭೫ ||


- - - - 

Friday, May 18, 2012

Sanskrit blog: Humour-48

हास्यसीकरः-४८
काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्? अहं कञ्चन प्रथितं वैद्यं वेद्मि । परंतु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम् । इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् , मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते, इति । वैद्यः प्रगल्भतरः अवदत्, भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम् इति ।
- - - - 

Saturday, May 12, 2012

Sanskrit blog: So said Timmu the dull headed



मूढतिम्मुरुवाच
अनुभवक्षीरे विचारमन्थनकर्म
जनयति ज्ञाननवनीतं हि सुखदम् ।
शुकजल्पितं ग्रन्थपठनमनुभव एव
तव धर्मदीपोऽस्ति मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಅನುಭವದಪಾಲೊಳು ವಿಚಾರಮನ್ಥನವಾಗೆ
ಜನಿಯಿಕುಂ ಜ್ಞಾನನವನೀತವದೆ ಸುಖದಂ ||
ಗಿಣಿಯೋದು ಪುಸ್ತಕಜ್ಞಾನ; ನಿನ್ನನುಭವವೆ
ನಿನಗೆ ಧರುಮದ ದೀಪ ಮಂಕುತಿಮ್ಮ || 544 ||

- - - - 

Sunday, May 6, 2012

Sanskrit blog: Humour-47

हास्यसीकरः-४७
विमानानि उड्डयनात् प्राक् उड्डयनावश्यवेगं प्राप्तुं तदर्थरचितमार्गे कतिचननिमिषपर्यन्तं प्रद्रवन्ति खलु । एकदा विमानमित्थं प्रद्राव्य एकघण्ठावेलामतिक्रम्य भूतले एव स्थगितः अभवत् । तदनन्तरं विमानमुदडयत । विमानस्थः यात्रिकः गगनसखीमपृच्छत् , कुतः विमानमित्थं स्थगितमभवदिति । गगबसखी प्रत्युवाच, उड्डयनपूर्वधावने विमानचालकः विमानयन्त्रे असामान्यशब्दमश्रौषीत् । अपरं विमानचालकमानेतुं विलम्बः अभवत् इति ।
- - - -